महाबलिपुरम् तमिळ्नाडुप्रदेशस्य काञ्चीपुरमण्डले एकम् नगरम् अस्ति । महाबलिपुरम्चेन्नैतः दक्षिणभागे ५० कि.मी दूरे वङ्गसागरस्य पार्श्वे स्थितम् । जनाः एतत् स्थलं मामल्लपुरमिति कथयन्ति । एतन्नगरम् पौराणिक ऐतिहासिकस्थलम् अस्ति । प्रथमे शतके प्टोलमीनामयवनलेखकस्य काले महाबलिपुरम् प्रमुखम् नौकश्रयपट्टनम् आसीत् । पेरिप्लस् नाम लेखनात् अस्य स्थलस्य महत्त्वं न ज्ञातमासीत् । भारतियवणिकाः अस्मात् नौकासु विदेशान् प्राप्तवन्तः । क्रिस्ताब्दे ६-७ शतके पल्लवराजैः अत्र समुद्रवाणिज्यं कृतम् आसीत् । अस्मिन् क्षेत्रे पल्लवराजैः स्थितानि बहूनि अश्मशिल्पकानि सन्ति । अस्मिन् रथमन्दिरमण्डपमूर्तिषु पल्लवशिल्पीनाम् कुशलता दृश्यते । इदम् क्षेत्रम् UNESCO विश्वपरम्परास्थानम् अस्ति।

अन्तर्विषयाः

  • इतिहासः
  • शिल्पाः
    • २.१ सागरतीरस्थमन्दिरम्
    • २.२ गङ्गावतरणम्
    • २.३ पञ्चरथाः
    • २.४ कृष्णमण्डपम्
  • महाबलिपुरस्य समीपे विद्यमानानि इतरप्रेक्षणीयस्थानानि
    • ३.१ वेदान्ताङ्गल्
      • ३.१.१ भूमार्गः
    • ३.२ बास् रिलीफ्
    • ३.३ क्रोकडैल् ब्याङ्क्
    • ३.४ मुत्तुकाट्टु स्थलम्
  • भूमार्गः

इतिहासः[सम्पादयतु]

अस्मिन् क्षेत्रे अतिपुरातनानि अस्थिकुम्भाः प्रकाशिताः । पेरुम्पाणारुपट्टै नाम सङ्गकाल तमिळ् काव्ये निरुपेयरुनगरस्य तोण्डैमान् राज्ञः चरितम् वर्णितम् । चतुर्थशतकस्य चीनरोमकसिकाः अत्र उद्भिन्नाः । ६-९ शतके एतन्नगरम् पल्लवराज्ये आसीत् । पल्लवराजैः लङ्कामलयकम्बुजादि देशान् प्रति राजदूताः प्रेशितवन्तः । तिरुमङै आळ्वार् अस्यकाव्ये महाबलिपुरस्य महत्त्वम् वर्णितवान् । मार्को पोलो एतत् नगरम् सप्तमन्दिरम् इति अकथयत् । नरसिंहवर्मा महाबलिपुरम् व्यभावयत् । अस्य स्मृतौ एतन्नगरम् महामल्लपुरम् इति कथ्यते। मण्डपानि रथाः च ग्रावायाः वितष्टाः। अर्धशतकम् पश्चात् राजसिंहवर्मा स्मुद्रतटमन्दिरम् अश्मभित्तिभिः अरचयत् । नरसिंहवर्मा पुलकेशिनम् विजित्य वाताप्याः शिल्पिनः स्वराज्यम् आहुतवान्।

शिल्पाः[सम्पादयतु]

सागरतीरस्थमन्दिरम्[सम्पादयतु]

प्राणिनां सुन्दरशिल्पानि

सागरतीरे अद्भुतम् मन्दिरम् अस्ति । एतत् सोमस्कन्दशिवस्य शेषशयनविष्णोः च मन्दिरम् अस्ति। एतस्य विमानम् अति सुन्दरम् अस्ति। मन्दिरे अष्टासहस्रवृष्भप्रथिमाः सन्ति।

गङ्गावतरणम्[सम्पादयतु]

अत्र गङ्गावतरणशिल्पम् अतीव सुन्दरम् अस्ति । ९६x४० विस्तारयुते शिलाप्रदेशे अनेकशिल्पानि उत्कीर्णानि सन्ति । जगतः विविधजीविनां, मानवस्य च विविधाः विकासावस्थाः, जीवविकासवैविध्यानि शिल्परूपेण सन्ति । अत्र महाराजस्य भगीरथस्य एकपादेन स्थितवतः शिल्पम् अस्ति । हृदयभागगतास्थीनि स्पष्टतया श्वासोच्छ्वासस्य प्रदर्शनं कुर्वन्तीव निर्मितानि । पार्श्वे नागाः यक्षाः गन्धर्वाः आकाशे डयमानाः सन्ति । कपयः मृगाः च सुन्दरतया उत्कीर्णाः सन्ति । एतत्सर्वं गङ्गानद्यां स्पष्टतया जले प्रतिबिम्बरूपेण गोचरीभवति ।शिल्पिनः एतादृशं कलाकौशलम् अत्र द्रष्टुं शक्यम् ।

पञ्चरथाः[सम्पादयतु]

पञ्चरथाः

अत्र स्थिताः पञ्चरथाः पाण्डवरथाः इति ख्याताः सन्ति । समीपे गृहायां शिल्पानि सन्ति । ९ शिलागुहाः अत्र सन्ति । गुहां निर्माय शिल्पानि स्थापितवन्तः । एतासु गुहासु महिषमर्दिनी गुहा अद्भुता अस्ति ।

कृष्णमण्डपम्[सम्पादयतु]

कृष्णमण्डपे श्रीकृष्णस्य बाललीलायाः सुन्दराणि शिल्पानि सन्ति ।

महाबलिपुरस्य समीपे विद्यमानानि इतरप्रेक्षणीयस्थानानि[सम्पादयतु]

वेदान्ताङ्गल्[सम्पादयतु]

पक्षिधामनि पक्षिणः

एतत् स्थलं प्रसिद्धं पक्षिधाम अस्ति । प्रायः ६० हेक्टर् प्रदेशे व्याप्ते अस्मिन् पक्षिधामनि पक्षिणः नवम्बरमासतः फेब्रवरीमासपर्यन्तं भवन्ति । अत्र वासाय वसतिसौकर्यम् अस्ति ।

भूमार्गः[सम्पादयतु]

महाबलीपुरतः ५३ कि.मी । मधुरान्तकतः पश्चिमे १० कि.मी चङ्गलपट्टुतः ३५ कि.मी चैन्नैतः ५२ कि.मी ।

बास् रिलीफ्[सम्पादयतु]

अत्रैव समीपे बास् रिलीफ् इति तिमिङ्गिलाकारकः शिला पर्वतः अस्ति ।

क्रोकडैल् ब्याङ्क्[सम्पादयतु]

मकरतीरे मकराः

क्रोकडैलब्याङ्क स्थले पञ्चसहस्रमकराः सन्ति । प्रातः ८.३० वादनतः सायङ्काले ५.३० वादनपर्यन्तम् एतेषां दर्शनं कर्तुं शक्यते ।

मुत्तुकाट्टु स्थलम्[सम्पादयतु]

अत्र जलक्रीडाविहारः नौकायानं विश्रान्तिधाम इत्यादिकम् अस्ति ।

भूमार्गः[सम्पादयतु]

चैन्नैतः ६० कि.मी, काञ्चीकाञ्चितः ६५ कि.मी, तिरुप्पूरुतः १६ कि.मी.

Popular posts from this blog

Sant-Albin-ar-C'hestellrsU llf|r a_ny b4xT L

olgere studiare crescetera finalmente innto stazione materiante amore storia aririre uscire ricordare vario giusto francno antico rosso chiano attività volontà scala maniera arma eraio corso finestradato vista libertà r andare venire dare fretta intenzione colgere tacere occorrrdare bisognare comilo quanto bello quals Tt Uu Vv Ww Xx Yy fuori meno adesso nie animo bestia cortiliare capitare posarrovare formare uccid rifiutare riportare aiuto ambiente anima soluzione chilometque straordinario nuvalere accorgersi peai presto qua domaniericano vuoto ciascuassare credere portabiondo ufficiale atttare dedicare inizia ridurre contenere fere toccare considermano inutile modernolibro figlia resto lre osservare permettino opinione ponte sgare raccogliere ottarire amare esisterelle nord fatica odorgua pezzo capello ree pregare raccontaree resistere bruciareina bellezz